शारदा - Sanskrit | Class 9 (Sanskrit)

Docxsity Agent

शारदा - Sanskrit | Class 9 (Sanskrit)

"शारदा" इति नवमकक्षायाः एतत् संस्कृतपाठ्यपुस्तकं छात्राणां समग्रविकासाय, ज्ञानवर्धनार्थं, व्यावहारिककौशलसम्पत्तये च विरचितमस्ति। अस्मिन् पाठ्यपुस्तके एकादश पाठाः सन्ति, येषां प्रत्येकं पाठः छात्रेभ्यः नूतनम् अनुभवं गहनं ज्ञानं च प्रदायति। राष्ट्रियशिक्षानीति-२०२० इत्यनुसारेण मानवीयमूल्यानि, जागतिकमूल्यानि, सामाजिकमूल्यानि, सांस्कृतिकमूल्यानि च अत्र विशेषरूपेण सन्निविष्टानि सन्ति, येन छात्राणां नैतिकं चारित्रिकं च विकासं सुदृढं भवति।

पुस्तकमिदं प्राचीनार्वाचीनविषयाणां सङ्गमस्थलं वर्तते, यत्र संस्कृतभाषामाध्यमेन छात्राः सामाजिकव्यवस्था, नैतिकता, वैज्ञानिकता, प्रौद्योगिकता, मानवीयसम्बद्धता चेत्यादीन् आधुनिकविषयानपि सम्यक् शिक्षन्ते। एतत् पाठ्यपुस्तकम् अनुभवाधारिताध्ययनाय स्वाध्यायकेन्द्रितं च प्रकल्पितम् अस्ति। श्लोकानाम् अन्वयक्रमः, सोदाहरणं व्याकरणांशाः, कठिनपदानाम् अर्थाः च संस्कृत-हिन्दी-आङ्गलभाषयोः मातृभाषया च प्रदत्ताः सन्ति, येन छात्राणां पाठस्य अवबोधनं सुकरं भवति। वर्णमयचित्राणि पाठस्य भावं सहजतया स्पष्टयन्ति, दीर्घकालं च छात्राणां बुद्धौ तिष्ठन्ति।

भाषाकौशलानां विकासाय श्रवणं, भाषणं, पठनं, लेखनं चेति चतुर्णां कौशलानां समीचीनाभ्यासाय अपेक्षिता सामग्री अत्र समायोजिता अस्ति, येन छात्राः भाषायां दक्षतां प्राप्तुं शक्नुवन्ति। पञ्चकोषाणां महत्त्वम्, विश्वबन्धुत्वम्, शान्तिः, एकता, जीवकारुण्यम्, देशभक्तिः, भारतीयतिहासः, जैनसम्प्रदायस्य प्रमुखाः सिद्धान्ताः च अत्र वर्णिताः सन्ति। उत्तमजीवननिर्हणाय आवश्यकं व्यावहारिकज्ञानम्, आर्थिकज्ञानं (यथा धनोपार्जनम्, व्ययमर्यादा, सञ्चयः, निवेशः, विभिन्न-सर्वकारीय-योजनाः), तन्त्रज्ञानम् (यथा कृतकबुद्धेः प्रकाराः, उपयोगाः, समस्याः), पर्यावरणशिक्षादयः च विषयाः छात्राणां ज्ञानवृद्धिं व्यवहारज्ञानं च वर्धयन्ति। परियोजनाकार्याणि, स्वाध्यायप्रवृत्तयः, संवादाधारितक्रियाः, QR-सङ्केताः च डिजिटल-शिक्षायां सहायकत्वेन सन्ति।

पुस्तकमिदं शिक्षणसिद्धान्तानाम् आधारेण रचितमस्ति, यथा ज्ञाताद् अज्ञातम्, सरलात् कठिनम्, स्थूलात् सूक्ष्मम् इति। सुभाषितानां पङ्क्तयः पाठानां शीर्षकरूपेण प्रदत्ताः सन्ति, याः छात्राणां नित्यजीवने उपयोगार्थं प्रेरयन्ति। रचनात्मक:, तार्किका:, भाषाकौशलान्तर्गता:, तन्त्रज्ञानान्तर्गता:, क्रीडात्मका:, समालोचनात्मका:, सामूहिकश्च क्रियाकलापाः अत्र प्रभूताः सन्ति, येषां माध्यमेन छात्राः सोत्साहं विषयान् अधिगच्छन्ति। एतत् पुस्तकं छात्रान् गम्भीरचिन्तनाय, आत्मविश्वासपूर्वकसंवादाय, अस्माकं राष्ट्रस्य विश्वस्य च बौद्धिकसामाजिकजीवने सविवेकं सहभागितायै च प्रेरयिष्यति, ततश्च ते भविष्ये उत्तरदायिनः नागरिकाः भविष्यन्ति।